|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.127. अध्यायः 127
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
व्यासेन शुकम्प्रति कपिलालक्षणविभागादिकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
शुक उवाच।
केन वर्णविभागेन विज्ञेया कपिला भवेत्।
कति वा लक्षणान्यस्या दृष्टानि मुनिभिः पुरा॥ 13-127-1(86257)
श्रीव्यास उवाच। 13-127-2x(7157)
शृणु तात यथा गोषु विज्ञेया कपिला भवेत्।
नेत्रयोः शृङ्गयोश्चैव खुरेषु वृषणेषु च।
कर्णतो घ्राणतश्चापि षड्विधाः कपिलाः स्मृताः॥ 13-127-2(86258)
एतेषां लक्षणानां तु यद्येकमपि दृश्यते।
कपिलां तां विजानीयादेवमाहुर्मनीषिणः॥ 13-127-3(86259)
आग्नेयी नेत्रकपिला खुरैर्माहेश्वरी भवेत्।
ग्रीवायां वैष्णवी ज्ञेया पूष्णो घ्राणादजायत॥ 13-127-4(86260)
कर्णतस्तु वसन्तेन स्वयोनिमभिजायते।
गायत्र्याश्च वृषणयोरुत्पत्तिः षड्गुणा स्मृता॥ 13-127-5(86261)
एवं गावश्च विप्राश्च गायत्री सत्यमेव च।
वसन्तश्च सुवर्णश्च एकतः समजायत॥ 13-127-6(86262)
नेत्रयोः कपिलां यस्तु वाहयेत दुहेत वा।
स पापकर्मा नरकं प्रतिष्ठां प्रतिपद्यते॥ 13-127-7(86263)
नरकाद्विप्रमुक्तस्तु तिर्यग्योनिं निषेवते।
यदा लभेत मानुष्यं जात्यन्धो जायते नरः॥ 13-127-8(86264)
शृङ्गयोः कपिलां यस्तु वाहयेत दुहेत वा।
तिर्यग्योनिं स लभते जायमानः पुनः पुनः॥ 13-127-9(86265)
खुरेषु कपिलां यस्तु वाहयेत दुहेत वा।
तमस्यपारे मज्जेत धनहीनो नराधमः॥ 13-127-10(86266)
कपिलां वालधानेषु वाहयेत दुहेत वा।
निराश्रयः सदा चैव जायते यदि चेत्कृमिः॥ 13-127-11(86267)
कर्णेन कपिलां यस्तु जानन्नप्युपजीवति।
सहस्रशः शुचिर्भुत्वा मानुष्यं प्राप्नुयादथ।
चण्डालः पापयोनिश्च जायते स नराधमः॥ 13-127-12(86268)
घ्राणेन कपिलां यस्तु प्रमादादुपजीवति।
सोऽपि वर्षसहस्राणि तिर्यग्योनौ प्रजायते॥ 13-127-13(86269)
व्याधिग्रस्तो जडो रोगी भवेन्मानुष्यमागतः॥ 13-127-14(86270)
मधुसर्पिस्सुगन्धास्तु कपिलाः शास्त्रतः स्मृताः।
एताः समुपजीवेत सोऽपि तिर्यक्षु जायते॥ 13-127-15(86271)
स्थावरत्वमनुप्राप्तो यदि मानुष्यतां लभेत्।
अल्पायुः स भवेज्जातो हीनवर्णकुलोद्भवः॥ 13-127-16(86272)
ये तु पापा ह्यसूयन्ते कपिलां वाहयन्ति च।
निरयेषु प्रतिष्ठन्ते यावदाभूतसम्प्लवम्॥ ॥ 13-127-17(86273)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः॥ 127 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-127-7 वाहयेन दमेत वेति थ.पाठ.॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|